|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.20. अध्यायः 020
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
कश्यपेन स्वभार्ययोः कद्रूविनतयोः क्रमेणि पुत्रसहस्रतद्द्वयलाभरूपवरदानम्॥ 1 ॥ कद्र्वा अण्डसहस्रात्सर्पसहस्रविनिर्गमे उत्कण्ठितया विनतया स्वीयाण्डद्वये एकतराण्डविभेदनम्॥ 2 ॥ अकालेऽण्डभेदनादसमग्राङ्गतया जातेनारूपेण विनतायै दास्यप्राप्तिरूपशापदानम्॥ 3 ॥

Mahabharata - Anushaasana Parva - Chapter Text
`भीष्म उवाच।
युधिष्ठिर महाबाहो शृणु राजन्यथातथम्।
गरुडं पक्षिणां श्रेष्ठं वैनतेयं महाबलम्॥ 13-20-1(81790)
तथा च गरुडो राजन्सुपर्णश्च यथाऽभवत्।
यथा च भुजगान्हन्ति तथा मे ब्रुवतः शृणु॥ 13-20-2(81791)
पुराऽहं तात रामेणि जामदग्न्येन धीमता।
कैलासशिखरे रम्ये मृगान्निघ्नन्सहस्रशः॥ 13-20-3(81792)
तमहं तात दृष्टैव शस्त्रण्युत्सृज्य सर्वशः।
अभिवाद्य पूर्वं रामाय विनयेनोपतस्थिवान्॥ 13-20-4(81793)
तमहं कथान्ते वरदं सुपर्णस्य बलौजसी।
अपृच्छं स च मां प्रीतः प्रत्युवाच युधिष्ठिर॥ 13-20-5(81794)
कद्रूश्च विनता चास्तां प्रजापतिसुते उभे।
ते तु धर्मेणोपयेमे मारीचः कश्यपः प्रभुः॥ 13-20-6(81795)
प्रादात्ताभ्यां वरं प्रीतो भार्याभ्यां सुमहातपाः॥ 13-20-7(81796)
तत्र कद्रूर्वरं वव्रे पुत्राणां दशतः शतम्।
तुल्यतेजःप्रभावानां सर्वेषां तुल्यजन्मनाम्॥ 13-20-8(81797)
विनता तु वव्रे द्वौ पुत्रौ वीरौ भरतसत्तम।
कद्रूपुत्रसहस्रेण तुल्यवेगपराक्रमौ॥ 13-20-9(81798)
स तु ताभ्यां वरं प्रादात्तथेत्युक्त्वा महातपाः।
जनयामास तान्पुत्रां स्ताभ्यामासीद्यथा पुरा॥ 13-20-10(81799)
कद्रूः प्रजज्ञे ह्यण्डानां तथैव दशतःशतम्।
अण्डे द्वे विनता चैव दर्शनीयतरे शुभे॥ 13-20-11(81800)
तानि त्वण्डानि तु तयोः कद्रूविनतयोर्द्वयोः।
सोपस्वेदेषु पात्रेषु निदधुः परिचारिणः॥ 13-20-12(81801)
निस्सरन्ति तदाऽण्डेभ्यः कद्रूपुत्रा भुजङ्गमाः।
पञ्चवर्षशते काले दृष्ट्वाऽमोघबलौजसः॥ 13-20-13(81802)
विनता तेषु जातेषु पन्नगेषु महात्मसु।
विपुत्रा पुत्रसंतापाद्दण्डमेकं बिभेद ह॥ 13-20-14(81803)
किमनेन करिष्येऽहमिति वाक्यमभाषत।
नहि पञ्चशते काले पुरा पुत्रौ ददर्श सा॥ 13-20-15(81804)
सापश्यदण्डान्निष्क्रान्तं विनापत्रं मनस्विनम्।
पूर्वकायोपसम्पन्नं वियुक्तमितरेण ह॥ 13-20-16(81805)
दृष्ट्वा तु तं तथारूपमसमग्रशरीरिणम्।
पुत्रदुःखान्विताऽशोचत्स च पक्षी तथा गतः॥ 13-20-17(81806)
अब्रवीच्च मुदा युक्तः पर्यश्रुनयनस्तदा।
मातरं च पलाशी ह हतोऽहमिति चासकृत्॥ 13-20-18(81807)
न त्वया काङ्क्षितः कालो यावानेवात्यगात्पुरा।
आवां भवाय पुत्रौ ते श्वसनाद्बलवत्तरौ॥ 13-20-19(81808)
ईर्ष्याक्रोधाभिभूतत्वाद्योहमेवं कृतस्त्वया।
तस्मात्त्वमपि मे मातर्दासीभावं गमिष्यसि॥ 13-20-20(81809)
पञ्चवर्षशतानि त्वं स्पर्धसे वै यया सह।
दासी तस्या भवित्रीति साश्रुपातमुवाच ह॥ 13-20-21(81810)
एष चैव महाभागे बली बलवतांवरः।
मोक्षयिष्यति ते मातर्दासीभावान्ममानुजः॥' ॥ 13-20-22(81811)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि विंशोऽध्यायः॥ 20 ॥
Mahabharata - Anushaasana Parva - Chapter Footnotes
7-20-3 रामेण सङ्गत इति शेषः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|